||Sundarakanda ||

|| Sarga 57||( Only Slokas in Devanagari) )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुंदरकांड.
अथ सप्तपंचाशस्सर्गः॥

स चंद्र कुसुमं रम्यं सार्क कारण्डवं शुभं।
तिष्यश्रवणकादम्ब मभ्रशैवालशाद्वलम्॥1||

पुनर्वसु महामीनं लोहितांग महाग्रहम्।
ऐरावत महाद्वीपं स्वातीहंसविलोळितम्॥2||

वातसंघातजातोर्मि चन्द्रांशुशिशिराम्बुमत्।
भुजंगयक्षगंधर्व प्रबुद्ध कमलोत्पलम्॥3||

हनुमान्मारुतगति र्महानौरिव सागरम्।
अपार मपरिश्रांतं पुप्लुवे गगनार्णवम्॥4||

ग्रसमान इवाकाशं ताराधिप मिवोल्लिखन्।
हारन्निव स नक्षत्रम् गगनं सार्क मण्डलम्॥5||

मारुतस्यात्मजः श्रीमान्कपि र्व्योमचरो महान्।
हनुमन्मेघजालानि विकर्षन्निव गच्छति॥6||

पाण्डुरारुणवर्णानि नीलमांजिष्टकानि च।
हरितारूण वर्णानि महाभ्राणि चकाशिरे॥7||

प्रविशन्नभ्रजालानि निष्पतं च पुनः पुनः।
प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते॥8||

विविधाभ्रघनापन्न गोचरो धवळांबरः।
दृश्यादृश्यतनुर्वीरः तदा चन्द्रायतेsम्बरे॥9||

तार्‍क्ष्ययमाणे गगने भभासे वायुनन्दनः।
दारयन्मेघबृन्दानि निष्प्रतं च पुनः पुनः॥10||

नदन्नादेन महता मेघस्वनमहास्वनः।
प्रवरान् राक्षसान् हत्वा नाम विश्राव्यचात्मनः॥11||

अकुलां नगरीं कृत्वा व्यथयित्वा च रावणम्।
अर्थयित्वा बलं घोरं वैदेहीमभिवाद्य च॥12||

अजगाम महातेजाः पुनर्मध्येन सागरम्।
पर्वतेन्द्रं सुनाभं च समुस्पृश्य वीर्यवान्॥13||

ज्यामुक्त इव नाराचो महावेगोsभ्युपागतः।
सकिंचिदनुसंप्राप्तः समालोक्य महागिरिम्॥14||

महेन्द्रं मेघसंकाशं ननाद हरिपुंगवः।
स पूरयामास कपिर्दिशो दश समन्ततः॥15||

नदन्नादेन महता मेघस्वनमहास्वनः।
स तं देशमनुप्राप्तं सुहृद्दर्शन लालसा॥16||

ननाद हरिशार्दूलो लांगूलं चाप्यकम्पयत्।
तस्य नानद्यमानस्य सुपर्ण चरिते पथि॥17||

फलतीवास्य घोषेण गगनं सार्कमण्डलम्।
येतु तत्रोत्तरे तीरे समुद्रस्य महाबलाः॥18||

पूर्वं संविष्ठिताः शूराः वायुपुत्त्र दिदृक्षवः।
महतो वातनुन्नस्य तो यद स्येव गर्जितम्॥19||

शुश्रुवुस्ते तदा घोषं ऊरुवेगं हनूमतः।
ते दीनमससः सर्वे शुश्रुवुः काननौकसः॥20||

वानरेन्द्रस्य निर्घोषं पर्जन्य निनदोपमम्।
निशम्य नदतो नादं वानराः ते समन्ततः॥21||

बभूवुरुत्सुकाः सर्वे सुहृद्दर्शन कांक्षिणः।
जांबवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः॥22||

उपामन्त्र्य हरीन् सर्वान् इदं वचनमब्रवीत्।
सर्वथा कृतकार्योsसौ हनुमान्नात्र संशयः॥23||

न ह्या स्याकृतकार्यस्य नाद एवं विधो भवेत्।
तस्य बाहूरुवेगं च निनादं च महात्मनः॥24||

निशम्य हरयो हृष्टाः समुत्पेतुः ततस्ततः।
ते नगाग्रान् नगाग्राणि शिखरात् शिखराणि च ॥25||

प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः।
ते प्रीताः पादपाग्रेषु गृह्यशाखाः सुविष्टिताः॥26||

वासां सीव प्रशाखाश्च समाविध्यन्त वानराः।
गिरिगह्वरसंलीनो यथा गर्जति मारुतः॥27||

एवं जगर्ज बलवान् हनुमान् मारुतात्मजः।
तमभ्रघनसंकाश मापतन्तं महाकपिम्॥28||

दृष्ट्वा ते वानराः सर्वे तस्थुः प्रांजलयस्तदा।
ततस्तु वेगवां स्तस्य गिरेर्गिरिनिभः कपिः॥29||

निपपात महेन्द्रस्य शिखरे पादपाकुले ।
हर्षेणापूर्यमाणोsसौ रम्ये पर्वत निर्झरे॥30||

छिन्नपक्ष इवाssकाशात् पपात धरणी धरः।
ततस्ते प्रीतमनसः सर्वे वानरपुंगवः॥31||

हनुमन्तं महात्मानं परिवार्योपतस्थिरे।
परिवार्य च ते सर्वे परां प्रीति मुपागताः॥32||

प्रहृष्टवदनाः सर्वे तमरोगमुपागतम्।
उपायनानि चादाय मूलानि फलानि च॥33||

प्रत्यर्चयन् हरिश्रेष्टं हरयो मारुतात्मजम्।
हनुमांस्तु गुरून् वृद्धान् जांबवत्प्रमुखां स्तदा॥34||

कुमारमंगदं चैव सोsवन्दत महाकपिः।
स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः॥35||

दृष्टा सीतेति विक्रान्तः संक्षेपेण न्यवेदयत्।
निषसाद च हस्तेन गृहीत्वा वालिनस्सुतम्॥36||

रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा।
हनुमानब्रवीद्दृष्टः तदा तान् वानरर्षभान्॥37||

अशोकवनिकासंस्था दृष्टा सा जनकात्मजा।
रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता॥38||

एकवेणी धरा बाला रामदर्शन लालसा।
उपवासपरिश्रान्ता जटिला मलिना कृशा॥39||

ततो दृष्टेति वचनं महार्थं अमृतोपमम्।
निशम्य मारुतेः सर्वे मुदिता वानाराभवन्॥40||

क्ष्वेळन्त्यन्ये ननदन्तन्ये गर्जन्तन्ये महाबलाः।
चक्रुः किल किलां अन्ये प्रतिगर्जन्ति चापरे॥41||

केचिदुच्छ्रितलांगूलाः प्रहृष्टाः कपिकुंजराः।
अंचितायुतदीर्घाणि लांगूलानि प्रविवध्युः॥42||

अपरे च हनूमंतं वानरावारणोपमं।
आप्लुत्य गिरिशृंगेभ्यः संस्पृशन्ति स्म हर्षिताः॥43||

उक्तवाक्यं हनूमन्तं अंगदः तम् अथाब्रवीत्।
सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम्॥44||

स त्वे वीर्ये न ते कश्चित्समो वानर विद्यते।
यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः॥45||

अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः।
दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी॥46||

दिष्ट्या त्यक्ष्यति काकुत्‍स्थः शोकं सीतावियोगजम्।
ततोsज्ञ्गदं हनूमन्तं जांबवन्तं च वानराः॥47||

परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः।
श्रोतुकामाः समुद्रस्य लंघनं वानरोत्तमाः॥48||

दर्शनं चापि लंकायाः सीताया रावणस्य च।
तस्थुः प्रांजलयः सर्वे हनुमद्वदनोन्मुखाः॥49||

तस्थौ तत्राsज्ञ्गदः श्रीमान्वानरैर्बहुभिर्वृतः।
उपास्यमानो विबुधैः दिविदेवपतिर्यथा॥50||

हनूमता कीर्तिमता यशस्विना
तथांगदे नांगदबद्धबाहुना।
मुदा तदाsध्यासितमुन्नतं महान्
महीधराग्रं ज्वलितं श्रियाsभवत्॥51||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे सप्तपंचाशस्सर्गः ॥

|| Om tat sat ||